मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् १०

संहिता

प्रान्यच्च॒क्रम॑वृह॒ः सूर्य॑स्य॒ कुत्सा॑या॒न्यद्वरि॑वो॒ यात॑वेऽकः ।
अ॒नासो॒ दस्यूँ॑रमृणो व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चः ॥

पदपाठः

प्र । अ॒न्यत् । च॒क्रम् । अ॒वृ॒हः॒ । सूर्य॑स्य । कुत्सा॑य । अ॒न्यत् । वरि॑वः । यात॑वे । अ॒क॒रित्य॑कः ।
अ॒नासः॑ । दस्यू॑न् । अ॒मृ॒णः॒ । व॒धेन॑ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्रऽवा॑चः ॥

सायणभाष्यम्

हेइन्द्र पूर्वं द्विचक्रस्यसूर्यस्य अन्यदेकंचकक्रं प्रावृहः पृथक् चकर्थ अन्यदेकंचक्रं कुत्साय कुत्सस्यवरिवोधनं यातवे प्राप्तुं अकः अकार्षीः किंच अनासः आस्यरहितान् आस्यशब्देनशब्दोलक्ष्यते अशब्दान् मूकान् दस्यान् असुरान् वधेनायुधेनवज्रेण अमृणः अहिंसीः दुर्योणे संग्रामे मृध्रवाचः हिंसितवागिन्द्रियानसुरान् न्यवृणक् नितरांछिन्नवानसि अमृणोन्यवृणगितिद्विरुक्तिरादरार्था ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४