मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् १

संहिता

क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिन्द्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम् ।
यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छन्तदोको॒ गन्ता॑ पुरुहू॒त ऊ॒ती ॥

पदपाठः

क्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् ।
यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥

सायणभाष्यम्

वज्री वज्रवान्पुरुहूतोबहुभिराहूतोयइन्द्रः राया देयेनधनेनसहसुतसोममिच्छन् अभिषुतसोमंयजमानमन्विच्छन् ऊती ऊत्यै रक्षायै तत् तस्ययजमानस्य ओकोगृहंगंता प्राप्तोभवति वीरोविक्रान्तस्यसइन्द्रः क्वकुत्रविद्यते सुखरथं शोभनाख्यद्वारोरथोयस्यससुखरथः भ्यां स्ववाहनाभ्यामश्वाभ्यांईयमानंगच्छन्तमिन्द्रंकोपश्यत् कश्चददृशे ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६