मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् ८

संहिता

युजं॒ हि मामकृ॑था॒ आदिदि॑न्द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्य॑ः ॥

पदपाठः

युज॑म् । हि । माम् । अकृ॑थाः । आत् । इत् । इ॒न्द्र॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।
अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । वर्त॑मानम् । प्र । च॒क्रिया॑ऽइव । रोद॑सी॒ इति॑ । म॒रुत्ऽभ्यः॑ ॥

सायणभाष्यम्

हेइन्द्र त्वं स्वर्यं स्वरेणसहितं वर्तमानं भ्रमन्तं अश्मानंचित् मेघमिवस्थितं दासस्य उपक्षपयितुर्नमुचेरसुरस्यशिरः मथायन् चूर्णयन् आदिदनन्तरमेवमां युजं सखायं अकृथाहि चकृषेखलु तदानींमरुद्भ्यः त्वत्सहायेभ्यः रोदसी द्यावापृथिव्यौचक्रियेव चक्रेइव प्रास्तां उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७