मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् १३

संहिता

सु॒पेश॑सं॒ माव॑ सृज॒न्त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने ।
ती॒व्रा इन्द्र॑मममन्दुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥

पदपाठः

सु॒ऽपेश॑सम् । मा॒ । अव॑ । सृ॒ज॒न्ति॒ । अस्त॑म् । गवा॑म् । स॒हस्रैः॑ । रु॒शमा॑सः । अ॒ग्ने॒ ।
ती॒व्राः । इन्द्र॑म् । अ॒म॒म॒न्दुः॒ । सु॒तासः॑ । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाः ॥

सायणभाष्यम्

हेअग्ने रुशमासः रुशमाः ऋणंचयस्यकिंकराः सुपेशसं सुरूपमलंकाराच्छादनादिभिः सत्कृतं मा मांअस्तं गृहं गवांधेनूनांसहस्रैःसह अवसृजन्ति प्रापयन्तिस्म तदनंतरमेवतीव्राः रसवन्तः सुतासः लब्धबहुधनेनमयाभिषुताःसोमाः परितक्म्यायाः तमसाभूतानिपरितस्तकतिगच्छतीतिपरितक्म्या तस्याः अक्तोरात्रेः व्युष्टौ व्युच्छनेसति उषःकालइत्यर्थः इन्द्रमममन्दुः अमादयन् बभ्रुः गवांप्राप्त्यनन्तरमविलंबितमेवसोमेनेजइत्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८