मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् ४

संहिता

अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् ।
ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥

पदपाठः

अन॑वः । ते॒ । रथ॑म् । अश्वा॑य । त॒क्ष॒न् । त्वष्टा॑ । वज्र॑म् । पु॒रु॒ऽहू॒त॒ । द्यु॒ऽमन्त॑म् ।
ब्र॒ह्माणः॑ । इन्द्र॑म् । म॒हय॑न्तः । अ॒र्कैः । अव॑र्धयन् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ॥

सायणभाष्यम्

हेपुरुहूत बहुभिराहूतेन्द्र तेत्वदीयंरथं अश्वाय अश्वाभ्यांसंयोगार्हं अनवः मनवोमनुष्याऋभवः तक्षन्नतक्षन्नकुर्वन् त्वष्टाचत्वदीयंवज्रं द्युमन्तंदीप्तिमन्तमकरोत् उ अपिच महयन्तः इन्द्रंपूजयन्तोब्रह्माणोङ्गिरसः परिवृढामरुतोवा अहये अहिंवृत्रंहन्तवै हन्तुं अर्कैः स्तोत्रैरवर्धयन् वर्धितवन्तः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९