मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् ५

संहिता

वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषा॑ः ।
अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥

पदपाठः

वृष्णे॑ । यत् । ते॒ । वृष॑णः । अ॒र्कम् । अर्चा॑न् । इन्द्र॑ । ग्रावा॑णः । अदि॑तिः । स॒ऽजोषाः॑ ।
अ॒न॒श्वासः॑ । ये । प॒वयः॑ । अ॒र॒थाः । इन्द्र॑ऽइषिताः । अ॒भि । अव॑र्तन्त । दस्यू॑न् ॥

सायणभाष्यम्

हेइन्द्र यद्यदा वृषणः सेचनसमर्थामरुतः बृष्णे कामानां वर्षित्रेते तुभ्यं अर्कं स्तोत्रंअर्चान् स्तुवन्नकुर्वन्नित्यर्थः तदा अदितिःअदीनाः वचनव्यत्ययः ग्रावाणोअभिषवणपाषाणाः सजोषाः संगताबभूवुरितिशेषः अनश्वासः अश्ववर्जिताः अरथाः रथहीनाः इन्द्रेषिताः इन्द्रेणप्रेषिताः पवयः पवमानागच्छन्तोयेमरुतः दस्यून् शत्रून् अभ्यवर्तन्त अभिभूतान् कुर्वंतोवर्तन्ते स्म तेमरुतः अर्चानितिसंबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९