मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३१, ऋक् १२

संहिता

आयं ज॑ना अभि॒चक्षे॑ जगा॒मेन्द्र॒ः सखा॑यं सु॒तसो॑ममि॒च्छन् ।
वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर॑न्ति ॥

पदपाठः

आ । अ॒यम् । ज॒नाः॒ । अ॒भि॒ऽचक्षे॑ । ज॒गा॒म॒ । इन्द्रः॑ । सखा॑यम् । सु॒तऽसो॑मम् । इ॒च्छन् ।
वद॑न् । ग्रावा॑ । अव॑ । वेदि॑म् । भ्रि॒या॒ते॒ । यस्य॑ । जी॒रम् । अ॒ध्व॒र्यवः॑ । चर॑न्ति ॥

सायणभाष्यम्

हेजनाः अभिचक्षे युष्मानभिद्रष्टुमयमिन्द्रः सखायंस्तोतारंसुतसोमं अभिषुतसोमंयजमानं इच्छन्नभिलषन् आजगामागच्छति अध्वर्यवः यस्यग्राव्णः जीरंक्षेपणंप्रेरणंचरन्तिकुर्वन्तिसग्रावा सोमाभिषवपाषाणः वदन् शब्दंकुर्वन् वेदिं अवभ्रियाते अभिह्रियते ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१