मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् १

संहिता

अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः ।
म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥

पदपाठः

अद॑र्दः । उत्स॑म् । असृ॑जः । वि । खानि॑ । त्वम् । अ॒र्ण॒वान् । ब॒द्ब॒धा॒नान् । अ॒र॒म्णाः॒ ।
म॒हान्त॑म् । इ॒न्द्र॒ । पर्व॑तम् । वि । यत् । वरिति॒ वः । सृ॒जः । वि । धाराः॑ । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥

सायणभाष्यम्

हेइन्द्र त्वं उत्सं उत्स्यंदमानंमेघं अदर्दः विदारितवानसि तदनंतरं खानि मेघस्थोदकानांनिर्गमनद्वाराणि व्यसृजः विशेषेणसृष्टवानसि किंच वद्बधानान् बाध्यमानान् अर्णवान् उदकवतोमेघान् अरम्णाः विसर्जयसि क्षारयसीत्यर्थः अत्ररम्णातिविसर्जनकर्मा हेइन्द्र यत् यस्त्वं यदितिलिंगव्यत्ययः महान्तंप्रभूतंपवर्तंमेघं विवः विवृतवानसि धाराः अपांविसृजः विसृष्टवानसि अपिच दानवं दनोःपुत्रं वृत्रमसुरं यद्वा उदकस्यदातारंमेघंवा अवहन् अभिहतवानसि अत्रनिरुक्तम्-अदृणाउत्समुत्सउत्सदनाद्वोत्स्यंदना द्वोनत्तेर्वास्या -द्भ्यसृजोस्यखानित्व- मर्णवानर्णस्वतएतानित्यादि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२