मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् २

संहिता

त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊध॒ः पर्व॑तस्य वज्रिन् ।
अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इ॑न्द्र॒ तवि॑षीमधत्थाः ॥

पदपाठः

त्वम् । उत्सा॑न् । ऋ॒तुऽभिः॑ । ब॒द्ब॒धा॒नान् । अरं॑हः । ऊधः॑ । पर्व॑तस्य । व॒ज्रि॒न् ।
अहि॑म् । चि॒त् । उ॒ग्र॒ । प्रऽयु॑तम् । शया॑नम् । ज॒घ॒न्वान् । इ॒न्द्र॒ । तवि॑षीम् । अ॒ध॒त्थाः॒ ॥

सायणभाष्यम्

हेवज्रिन् वज्रवन्निन्द्र त्वं ऋतुभिः ऋतुषुवृष्टिकालेषुबद्बधानान् प्रतिबध्यमानान् उत्सान् मेघान् प्रतिबन्धनादमोचयइतिशेषः अपिच पर्वतस्यमेघस्यसंबन्धि ऊधोबलं अरंहः अगमयः हेउग्र उद्गूर्णबलेन्द्र प्रयुतमुद्युक्तं शयानं जलेशयनंकुर्वन्तं अहिंचिद्वृत्रंचजघन्वान् हत- वानसि हेइन्द्र त्वंतविषींबलं अधत्थाः अधारयः वृत्रवधानंतरंइन्द्रोलोकेप्रख्यातोभवतीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२