मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् ४

संहिता

त्यं चि॑देषां स्व॒धया॒ मद॑न्तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गाम् ।
वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्ण॑म् ॥

पदपाठः

त्यम् । चि॒त् । ए॒षा॒म् । स्व॒धया॑ । मद॑न्तम् । मि॒हः । नपा॑तम् । सु॒ऽवृध॑म् । त॒मः॒ऽगाम् ।
वृष॑ऽप्रभर्मा । दा॒न॒वस्य॑ । भाम॑म् । वज्रे॑ण । व॒ज्री । नि । ज॒घा॒न॒ । शुष्ण॑म् ॥

सायणभाष्यम्

एषांप्राणिनां स्वधयान्नेन मदन्तं मोदमानं सर्वप्राणिनामन्नं स्वयमेवभुंजानं मिहः सेचनसमर्थस्यमेघस्य नपातं पातारंरक्षितारं अत्रनपच्छब्दः पातरिवर्तते प्राणोवैतनूनपात्सहितन्वः पातीतिब्राह्मणम् । सुवृधंप्रवृद्धं तमोगांतमोन्धकारंगच्छन्तं त्यंचित् तंचवृत्रंनिजघानेतिशेषः वृषप्रभर्मा वर्षणशीलस्यमेघस्यप्रहर्ता वज्रीवज्रवानिन्द्रः वज्रेणस्वकीयेनायुधेन दानवस्य दनुजस्यभामं अत्रक्रोधवाचिभामशब्देनक्रोधादुत्पन्नः शुष्णासुरोलक्ष्यते तंशुष्णमसुरंनिजघानहतवान् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२