मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् ५

संहिता

त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो॑ वि॒ददिद॑स्य॒ मर्म॑ ।
यदीं॑ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः ॥

पदपाठः

त्यम् । चि॒त् । अ॒स्य॒ । क्रतु॑ऽभिः । निऽस॑त्तम् । अ॒म॒र्मणः॑ । वि॒दत् । इत् । अ॒स्य॒ । मर्म॑ ।
यत् । ई॒म् । सु॒ऽक्ष॒त्र॒ । प्रऽभृ॑ता । मद॑स्य । युयु॑त्सन्तम् । तम॑सि । ह॒र्म्ये । धाः ॥

सायणभाष्यम्

अमर्मणोमर्महीनमात्मानंमन्यमानस्याम्यवृत्रस्यनिषत्तं निषण्णं त्यंचित् त्यत् तदेव लिंगव्यत्ययः मर्म प्राणस्थानं यत्रस्थानेविद्धोम्नियते तन्मर्मेत्युच्यते अस्यवृत्रस्य ऋतुभिः प्रज्ञानैः हेइन्द्र त्वंविददित् अज्ञासीरेव यद्यदा हेसुक्षत्र सुबलेन्द्र त्वं मदस्यमादकस्यसोमस्यप्रभृता प्रभृतौ संभरणेसति युयुत्सन्तं योद्धुमिच्छन्तं ईमेनंवृत्रं हर्म्ये हारके तमसि धाः न्यदधाः वृत्रः इन्द्रस्यभयात् तमसिप्राविशदित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२