मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् ६

संहिता

त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नम् ।
तं चि॑न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो॑ अप॒गूर्या॑ जघान ॥

पदपाठः

त्यम् । चि॒त् । इ॒त्था । क॒त्प॒यम् । शया॑नम् । अ॒सू॒र्ये । तम॑सि । व॒वृ॒धा॒नम् ।
तम् । चि॒त् । म॒न्दा॒नः । वृ॒ष॒भः । सु॒तस्य॑ । उ॒च्चैः । इन्द्रः॑ । अ॒प॒ऽगूर्य॑ । ज॒घा॒न॒ ॥

सायणभाष्यम्

सुतस्याभिषुतेनसोमेनमंदानोमोदमानःवृषभः कामानांवर्षितेन्द्रः उच्चैरूर्ध्वं अपगूर्य वज्रमुद्यम्य तंचित् तमेववृत्रंजघानावधीत् कीदृशं इत्थामुत्रान्तरिक्षलोके कत्पयं कत्सुखकरंपयोयस्यतं शयानं अप्सुशयानंकुर्वन्तं असूर्ये सूर्यरहिते तमस्यन्धकारे ववृधानं वर्धमानंत्यं चिदितिपुनर्वचनंपूरणार्थम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२