मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् ७

संहिता

उद्यदिन्द्रो॑ मह॒ते दा॑न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒ अप्र॑तीतम् ।
यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य ज॒न्तोर॑ध॒मं च॑कार ॥

पदपाठः

उत् । यत् । इन्द्रः॑ । म॒ह॒ते । दा॒न॒वाय॑ । वधः॑ । यमि॑ष्ट । सहः॑ । अप्र॑तिऽइतम् ।
यत् । ई॒म् । वज्र॑स्य । प्रऽभृ॑तौ । द॒दाभ॑ । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मम् । च॒का॒र॒ ॥

सायणभाष्यम्

यद्यदाइन्द्रः महतेप्रभूतायदानवाय वृत्रासुराय सहः शत्रूणामभिभवितृअप्रतीतं केनाप्यप्रतिगतंवधोवज्रंउद्यमिष्ट उदयच्छ्त् यद्यदावज्रस्यप्रभृतौ प्रहृतौ ग्रहरणेसति हृग्रहोर्भइतिभत्वं ईमेनंवृत्रं ददाभ अहिंसीत् तदाविश्वस्यसर्वस्यजन्तोः प्रणिनः अधमंनीचंचकार अकरोत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३