मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् ९

संहिता

को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना॑ भरते॒ अप्र॑तीतः ।
इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इन्द्र॒स्यौज॑सो भि॒यसा॑ जिहाते ॥

पदपाठः

कः । अ॒स्य॒ । शुष्म॑म् । तवि॑षीम् । व॒रा॒ते॒ । एकः॑ । धना॑ । भ॒र॒ते॒ । अप्र॑तिऽइतः ।
इ॒मे । चि॒त् । अ॒स्य॒ । ज्रय॑सः । नु । दे॒वी इति॑ । इन्द्र॑स्य । ओज॑सः । भि॒यसा॑ । जि॒हा॒ते॒ इति॑ ॥

सायणभाष्यम्

अस्येन्द्रस्यसंबन्धिनींशुष्मंशोषणींतविषींबलं कोवराते निवारयेत् शुष्मशब्दस्यस्त्रीलिंगविशेषणत्वेपि नियतलिंगत्वात्पुंसिपुल्लिंगत्वमेव अप्रतीतः केनाप्यप्रतिगतइन्द्रः एकोऽसहायएव धना धनानि शत्रूणांवसूनि भरते बिभर्ति हरतेवा देवी देव्यौ द्योतमाने इमेचित् एतेएवद्यावापृथिव्यौ ज्रयसोवेगवतोस्येन्द्रस्यसंबन्धिनः ओजसोबलादुद्भूतेनभियसाभयेन नुक्षिप्रं जिहाते गच्छतः चलतइत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३