मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३२, ऋक् १०

संहिता

न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इन्द्रा॑य गा॒तुरु॑श॒तीव॑ येमे ।
सं यदोजो॑ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने॑ क्षि॒तयो॑ नमन्त ॥

पदपाठः

नि । अ॒स्मै॒ । दे॒वी । स्वऽधि॑तिः । जि॒ही॒ते॒ । इन्द्रा॑य । गा॒तुः । उ॒श॒तीऽइ॑व । ये॒मे॒ ।
सम् । यत् । ओजः॑ । यु॒वते॑ । विश्व॑म् । आ॒भिः॒ । अनु॑ । स्व॒धाऽव्ने॑ । क्षि॒तयः॑ । न॒म॒न्त॒ ॥

सायणभाष्यम्

स्वधितिः स्वधृतिः स्वेनधृतादेवीद्योतमानाद्यौः अस्माइन्द्रायनिजिहीते नीचत्वेनयाति गातुर्भूमिः उशतीव कामयमानायोषिदिव इन्द्राय येमे आत्मानंनियच्छती यथेष्टमात्मानंविनियोक्तुंयोग्याभवतीत्यर्थः यद्यदेन्द्रः विश्वंसमस्तं ओजोबलं आभिः प्रजाभिः संयुवते संयोजयति इन्द्रःस्वकीयंबलं सर्वासुप्रजासुनिहितवानित्यर्थः अनुआनुकूल्येनवर्तमानाः क्षितयोमनुष्याः क्षितयइतिमनुष्यनामैतत् स्वधाव्नेबलवतइन्द्राय नमन्त सन्नमन्ति प्रह्वीभवंति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३