एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु ।
तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र॑म् ॥
एक॑म् । नु । त्वा॒ । सत्ऽप॑तिम् । पाञ्च॑ऽजन्यम् । जा॒तम् । शृ॒णो॒मि॒ । य॒शस॑म् । जने॑षु ।
तम् । मे॒ । ज॒गृ॒भ्रे॒ । आ॒ऽशसः॑ । नवि॑ष्ठम् । दो॒षा । वस्तोः॑ । हव॑मानासः । इन्द्र॑म् ॥
हेइन्द्र त्वा त्वां एकंनु मुख्यमेव जनेषुसर्वेषुमनुष्येषुमध्ये अहं मंत्रद्रष्टाश्रृणोमि ऋषिमुख्येभ्यः कीदृशं सत्पतिं सतांपालकं पांचजन्यं पंचजनेभ्योमनुष्य्तेभ्योहितं जातमुत्पन्नं यशसं यशोयुक्तं दोषा क्षपायां वस्तोर्वासरेच वहमानासः स्तुवन्तः आशसः कामानंशंसमानाः मे मदीयाःप्रजाः नविष्ठं अतिशयेनस्तुत्यं तमिन्द्रंजगृभ्रे गृय्ह्णन्तु स्वीकुर्वन्तु ॥ ११ ॥