मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३४, ऋक् १

संहिता

अजा॑तशत्रुम॒जरा॒ स्व॑र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी॑यते ।
सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ॥

पदपाठः

अजा॑तऽशत्रुम् । अ॒जरा॑ । स्वः॑ऽवती । अनु॑ । स्व॒धा । अमि॑ता । द॒स्मम् । ई॒य॒ते॒ ।
सु॒नोत॑न । पच॑त । ब्रह्म॑ऽवाहसे । पु॒रु॒ऽस्तु॒ताय॑ । प्र॒ऽत॒रम् । द॒धा॒त॒न॒ ॥

सायणभाष्यम्

अजातशत्रुं अनुत्पन्नाः शातयितारोयस्यतं दस्मं शत्रूणामुपक्षपयितारं अजरा अक्षीणास्वर्वतीस्वरणवतीअमिता अपरिमिता स्वधा अन्नं हविरन्वीयते नुप्राप्नोति तदर्थं हेऋत्विजः सुनोतन अभिषुणुत पचत पुरोडाशादिकं कस्मै ब्रह्मवाहसे ब्रह्मणः परिवृढस्यस्तोत्रस्यवाहकायपुरुष्टुतायबहुभिःस्तुतायेन्द्राय प्रतरं प्रकृष्टतरं दधातन धारयत स्वस्वोचितकर्म ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः