मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३४, ऋक् २

संहिता

आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒ताम॑न्दत म॒घवा॒ मध्वो॒ अन्ध॑सः ।
यदीं॑ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥

पदपाठः

आ । यः । सोमे॑न । ज॒ठर॑म् । अपि॑प्रत । अम॑न्दत । म॒घऽवा॑ । मध्वः॑ । अन्ध॑सः ।
यत् । ई॒म् । मृ॒गाय॑ । हन्त॑वे । म॒हाऽव॑धः । स॒हस्र॑ऽभृष्टिम् । उ॒शना॑ । व॒धम् । यम॑त् ॥

सायणभाष्यम्

योमघवा सोमेनजठरंस्वकीयं आसर्वतः अपिप्रत अपूरयत् मध्वोमधुरसस्यन्धसः सोमस्यपानेनामंदतातृप्यत् यद्यदा ईमयंमृगायैतन्नामकायासुरायहन्तवे तंहन्तुंमहावधः महावज्रः सहस्रभृष्टिरपरिमिततेजाः उशनाकामयमानःशत्रुं यद्वा उशनसासहवधं वज्रंयमत् उदयच्छत् तदापिप्रतामंदत ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः