मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३४, ऋक् ७

संहिता

समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑ ।
दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥

पदपाठः

सम् । ई॒म् । प॒णेः । अ॒ज॒ति॒ । भोज॑नम् । मु॒षे । वि । दा॒शुषे॑ । भ॒ज॒ति॒ । सू॒नर॑म् । वसु॑ ।
दुः॒ऽगे । च॒न । ध्रि॒य॒ते॒ । विश्वः॑ । आ । पु॒रु । जनः॑ । यः । अ॒स्य॒ । तवि॑षीम् । अचु॑क्रुधत् ॥

सायणभाष्यम्

ईमयमिन्द्रः पणेर्वणिजइव लुब्धकस्यादातुर्भोजनंधनमन्नंवामुषेचोरयितुंसमजति सम्यग्गच्छति गत्वाचादायदाशुषेहविर्दात्रे -यजमानायविभजति सूनरंशोभनमनुष्यंवसुधनं अयष्टुर्धनमाकृष्ययष्ट्रेप्रयच्छतीत्यर्थः नकेवलंवणिक् धनप्रदानमात्रं किंतु पुरुपुरूणिबहून्यन्यान्यपिधनानि किंच दुर्गेचनदुःखेननगन्तव्ये आपद्यपिविश्वःसर्वोपिदातृजनः आध्रियते आस्थाप्यते योजनः अस्येन्द्रस्यतविषींबलमचुक्रुधत् विहिताकरणादिनातस्यपणेरजतीतिपूर्वशेषः यद्वा योस्यतविषीमचुक्रुधत् ससर्वोपिजनोदुर्गेचनाध्रियते इन्द्रेणचनेत्येकपदमध्ये -तृसंप्रदायप्राप्तम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः