मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३४, ऋक् ९

संहिता

स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः ।
तस्मा॒ आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥

पदपाठः

स॒ह॒स्र॒ऽसाम् । आग्नि॑ऽवेशिम् । गृ॒णी॒षे॒ । शत्रि॑म् । अ॒ग्ने॒ । उ॒प॒ऽमाम् । के॒तुम् । अ॒र्यः ।
तस्मै॑ । आपः॑ । स॒म्ऽयतः॑ । पी॒प॒य॒न्त॒ । तस्मि॑न् । क्ष॒त्रम् । अम॑ऽवत् । त्वे॒षम् । अ॒स्तु॒ ॥

सायणभाष्यम्

अग्निवेशसुतंशत्रिमसंख्यातधनप्रदं ॥ आशास्तऋषिरंत्यर्चाप्रजापतिसुतःसुधीः ॥ १ ॥ अर्योहंसहस्रसां अपरिमितधनप्रदं आग्निवेशिं अग्निवेशसुतंशसुतंशत्रिंएतन्नामकंराजर्षिं गृणीषे गृणे स्तौमि हेअग्ने अंगनादिगुणविशिष्टेन्द्र कीदृशंतं अपमां उपमानभूतंकेतुंप्रज्ञापकंप्रख्यातमित्यर्थः तस्मैआपःसंयतः सम्यग्गच्छन्त्यः पीपयंत प्यायन्तां तस्मिन्राज्ञिक्षत्रंधनं अमवत् बलसहितंत्वेषंदीप्तिमदस्त्विति ॥ ९ ॥

यस्तेसाधिष्ठइत्यष्टर्चंतृतीयंसूक्तं अंगिरोगोत्रः प्रभूवसुर्नामऋषिः अंत्यापंक्तिः पंक्त्यंतपरिभाषयाशिष्टाअनुष्टुभः इन्द्रोदेवता यस्तेष्टौप्रभूवसुरांगिरसः पंक्त्यंतमित्यनुक्रान्तम् । सूक्तविनियोगोलैंगिकः आभिप्लविकेषुक्थेषुतृतीयसवने आद्यस्तृचोच्छावा -कस्यवैकल्पिकोनुरूपः सूत्रितंच-यस्तेसाधिष्ठोवसेपुरांभिन्दुर्युवाकविरिति । द्वितीयतृतीययोः स्वरसाम्नोश्चाद्यौतृचावनुरूपौ यस्तेसाधिष्ठोवसइतिषळनुष्टुभइतिहिसूत्रम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः