मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३५, ऋक् ७

संहिता

अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ ।
स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥

पदपाठः

अ॒स्माक॑म् । इ॒न्द्र॒ । दु॒स्तर॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ ।
स॒ऽयावा॑नम् । धने॑ऽधने । वा॒ज॒ऽयन्त॑म् । अ॒व॒ । रथ॑म् ॥

सायणभाष्यम्

हेइन्द्रास्माकंरथं रंहणस्वभावंवा पुत्रमवरक्ष कीदृशंरथं दृष्टरं दुःखेनतरणीयं आजिषुसंग्रामेषुपुरोयावानं पुरतोमिश्रयितारं सयावानं अनुचरैः सहगन्तारं धनेधने सर्वेषुधनेषु वाजयन्तं संग्रामंधनंवाइच्छन्तम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः