मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् ३

संहिता

आ वां॒ येष्ठा॑श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ ।उ॒त वा॑ दि॒वो असु॑राय॒ मन्म॒ प्रान्धां॑सीव॒ यज्य॑वे भरध्वम् ॥

पदपाठः

आ । वा॒म् । येष्ठा॑ । अ॒श्वि॒ना॒ । हु॒वध्यै॑ । वात॑स्य । पत्म॑न् । रथ्य॑स्य । पु॒ष्टौ ।
उ॒त । वा॒ । दि॒वः । असु॑राय । मन्म॑ । प्र । अन्धां॑सिऽइव । यज्य॑वे । भ॒र॒ध्व॒म् ॥

सायणभाष्यम्

अनयाश्विनौ रुद्रश्चोच्यन्ते हेअश्विना अश्विनौ येष्ठा कामानांयंतृतमौ वां युवां वातस्यपत्मन् धर्मसाम्याद्धर्मिग्रहणं वायुसमानगतेरश्वस्यगमनेप्राप्तौ रथ्यस्य रथस्यपुष्टौच निमित्तेसति हुवध्यै हुवे आह्वयामि आह्वातुंप्रभवामि वा अथवा वायुवद्युवयोः शीघ्रगमनसाधनरथस्यपोषेचनिमित्तेसति उतवा किंचेत्यर्थः दिवोद्योतमानाय चतुर्थ्यर्थेषष्ठी असुरायप्राणापहर्त्रेरुद्राय यद्वा द्युलोकसंबन्धिने असुरायप्राणदात्रे सूर्यायवायवेवा यज्यवे यागसाधकाय मन्ममननीयंस्तोत्रंप्रभरध्वं संपादयत हेऋत्विजः अन्धांसीव अन्नानिहविर्लक्षणानिहवींषिस्तोत्रंचेत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३