मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् १३

संहिता

वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा॑म दस्मा॒ वार्यं॒ दधा॑नाः ।
वय॑श्च॒न सु॒भ्व१॒॑ आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ॥

पदपाठः

वि॒द । चि॒त् । नु । म॒हा॒न्तः॒ । ये । वः॒ । एवाः॑ । ब्रवा॑म । द॒स्माः॒ । वार्य॑म् । दधा॑नाः ।
वयः॑ । च॒न । सु॒ऽभ्वः॑ । आ । अव॑ । य॒न्ति॒ । क्षु॒भा । मर्त॑म् । अनु॑ऽयतम् । व॒ध॒ऽस्नैः ॥

सायणभाष्यम्

हेमहान्तोमरुतोनु क्षिप्रं यूयं विद जानीथस्तोत्रं हेदस्माः दर्शनीयाः वोयुष्मान्यीवाः गन्तारोयुष्मान् भजमानाः वार्यंवरणीयंहविः दधानाः ददानाधारयन्तोवावयंब्रवामस्तुतिं यद्वा येवः यूयमित्यर्थः येयूयमेवाः अस्मद्यज्ञंअभिगन्तारः तेविद चिदितिपूरणः वयश्चन आगन्ता रश्चैतेमरुतः सुभ्वः सुष्ठुभवन्तः प्रवृद्धाः आ अस्मदभिमुखमवयन्ति गच्छन्ति किंकुर्वन्तः क्षुभा क्षोभकेणसहितंमर्तंमरणधर्माणंवैरिणं अनुयतं अभिगतं वधस्नैरायुधैः परिहरन्तोवयन्ति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५