मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् १४

संहिता

आ दैव्या॑नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचम् ।
वर्ध॑न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा॑ उ॒दा व॑र्धन्ताम॒भिषा॑ता॒ अर्णा॑ः ॥

पदपाठः

आ । दैव्या॑नि । पार्थि॑वानि । जन्म॑ । अ॒पः । च॒ । अच्छ॑ । सुऽम॑खाय । वो॒च॒म् ।
वर्ध॑न्ताम् । द्यावः॑ । गिरः॑ । च॒न्द्रऽअ॑ग्राः । उ॒दा । व॒र्ध॒न्ता॒म् । अ॒भिऽसा॑ताः । अर्णाः॑ ॥

सायणभाष्यम्

दैव्यानि देवसंबंधीनि पार्थिवानि पृथिवीसंबंधीनिच जन्म जन्मानि अपश्च अपसाच्छाभिप्ताप्तुंसुमखायशोभनयज्ञाय मरुद्गणायवोचं –ब्रवीमिगिरः स्तुतयोर्वर्धंतां द्यावोद्योतमानाः स्वप्रतिपाद्यार्थप्रकाशिन्यः चन्द्राग्राः आह्लादनंहिरण्यंवा अग्ने यासां तास्तादृश्यः सत्योवर्धन्तां अर्णाः नद्यश्चअभिषाताः मरुद्भिः संभक्ताः उदा उदकेनवर्धन्तां समृद्धाभवन्तु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५