क॒था दा॑शेम॒ नम॑सा सु॒दानू॑नेव॒या म॒रुतो॒ अच्छो॑क्तौ॒ प्रश्र॑वसो म॒रुतो॒ अच्छो॑क्तौ ।
मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॑द॒स्माकं॑ भूदुपमाति॒वनि॑ः ॥
क॒था । दा॒शे॒म॒ । नम॑सा । सु॒ऽदानू॑न् । ए॒व॒ऽया । म॒रुतः॑ । अच्छ॑ऽउक्तौ । प्रऽश्र॑वसः । म॒रुतः॑ । अच्छ॑ऽउक्तौ ।
मा । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । रि॒षे । धा॒त् । अ॒स्माक॑म् । भू॒त् । उ॒प॒मा॒ति॒ऽवनिः॑ ॥
वयं कथा केनप्रकारेण दाशेम परिचरेम नमसास्तोत्रेणान्नेनवासुदानून् शोभनदानान्मरुतः एवयाएवंक्रियमाणप्रकारेणअच्छेक्तौ आभिमुख्येनवचनेनिमित्तेसति तान्मरुतः कथंपरिचरेम तेषांदुराराध्यत्वादितिभावः कथं प्रश्रवसः प्रकृष्टान्नाभवन्ति अच्छोक्तौ अभिगंत्र्युक्तिः स्तुतिर्यस्यतादृशेमयि यद्वा प्रश्रवसःप्रकृष्टान्नस्यममअच्छोक्तौस्तोत्रनिमित्तेसति मरुतः कथाकेनप्रकारेणदाशेम पुनरुक्तिरादरार्था अहिर्बुध्र्योदेवोस्मान् रिषे हिंसकाय माधात् मास्थापयतु सदेवोस्माकंभूत् भवतु उपमातिवनिः शत्रूणांहन्ता ॥ १६ ॥