मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् १७

संहिता

इति॑ चि॒न्नु प्र॒जायै॑ पशु॒मत्यै॒ देवा॑सो॒ वन॑ते॒ मर्त्यो॑ व॒ आ दे॑वासो वनते॒ मर्त्यो॑ वः ।
अत्रा॑ शि॒वां त॒न्वो॑ धा॒सिम॒स्या ज॒रां चि॑न्मे॒ निरृ॑तिर्जग्रसीत ॥

पदपाठः

इति॑ । चि॒त् । नु । प्र॒ऽजायै॑ । प॒शु॒ऽमत्यै॑ । देवा॑सः । वन॑ते । मर्त्यः॑ । वः॒ । आ । दे॒वा॒सः॒ । व॒न॒ते॒ । मर्त्यः॑ । वः॒ ।
अत्र॑ । शि॒वाम् । त॒न्वः॑ । धा॒सिम् । अ॒स्याः । ज॒राम् । चि॒त् । मे॒ । निःऽऋ॑तिः । ज॒ग्र॒सी॒त॒ ॥

सायणभाष्यम्

हेदेवासोदेवाः वोयुष्मान् इतिचित् इत्थमेव नु क्षिप्रं प्रजायै पशुमत्यै पशुसहितायापत्याय वनते भजते मर्त्योमनुष्योयजमानः आदेवासइतिपुनरुक्तिरादरार्था अत्रास्मिन्यज्ञे शिवांधासिं अन्नं मे मम अस्यास्तन्वोदेवैरनुगृहीतस्यपुत्रस्य करोतु निरृतिर्देवता जरांचित् जरांच जग्रसीतग्रसतु ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६