मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४१, ऋक् १९

संहिता

अ॒भि न॒ इळा॑ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी॑ वा गृणातु ।
उ॒र्वशी॑ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू॑र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ॥

पदपाठः

अ॒भि । नः॒ । इळा॑ । यू॒थस्य॑ । मा॒ता । स्मत् । न॒दीभिः॑ । उ॒र्वशी॑ । वा॒ । गृ॒णा॒तु॒ ।
उ॒र्वशी॑ । वा॒ । बृ॒ह॒त्ऽदि॒वा । गृ॒णा॒ना । अ॒भि॒ऽऊ॒र्ण्वा॒ना । प्र॒ऽभृ॒थस्य॑ । आ॒योः ॥

सायणभाष्यम्

अभिगृणातु नोस्मानिळाभूमिः यूथस्यगोसंघस्य मातानिर्मात्री यद्वा इळा गोरूपधरामनोः पुत्रीत्याहुः यद्वा यूथस्यमरुद्गणस्य निर्मात्री इळामाध्यमिकीवाक् अथवोर्वशीमाध्यमिकीवाक् नदीभिर्गङ्गादिभिः सह गृणातु स्मच्छब्दः प्रशस्तवचनइत्युक्तं प्राशस्त्यंगृणातु अथवा अन्तरिक्षस्थानादेवता नोस्माकं प्राशस्त्यंगृणातु वाअथवा उर्वशीबहूनांवशयित्री आदित्याख्याद्युस्थानदेवता नःप्राशस्त्यंगृणातु कीदृशीसा उर्वशीबृहद्दिवाप्रभूतदीप्तिः गृणानाशब्दयन्ती अस्मदीयंकर्मप्रशंसन्ती अभ्यूर्ण्वानाआच्छादयन्ती कं आयोः आयुंमनुष्यंयजमानं केन प्रभृथस्यतेजसोवोदकस्यवादानेन प्रभृथस्यतेजसोवोदकस्येतिनिरुक्तम् । अथवा प्रभृथस्यप्रभरणवताअयोर्यज्ञमभ्यूर्ण्वानाआच्छादयन्ती ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६