मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४२, ऋक् ५

संहिता

दे॒वो भगः॑ सवि॒ता रा॒यो अंश॒ इन्द्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नाम् ।
ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रव॑न्तु नो अ॒मृता॑सस्तु॒रासः॑ ॥

पदपाठः

दे॒वः । भगः॑ । स॒वि॒ता । रा॒यः । अंशः॑ । इन्द्रः॑ । वृ॒त्रस्य॑ । स॒म्ऽजितः॑ । धना॑नाम् ।
ऋ॒भु॒क्षाः । वाजः॑ । उ॒त । वा॒ । पुर॑म्ऽधिः । अव॑न्तु । नः॒ । अ॒मृता॑सः । तु॒रासः॑ ॥

सायणभाष्यम्

अत्रलिंगोक्तादेवताः भगोदेवःसविताच रायोधनस्यस्वामी अंशस्त्वष्टा वृत्रस्यहन्ताइन्द्रश्च एतेदेवाः धनानांसंजितः सम्यक् जेतारः ऋभुक्षाः ऋभुर्वाजश्च उतवा अपिच पुरंधिर्बहुधीः विश्वोच्यते एतेच अमृतासोअमृताअमरणधर्माणःक् भगादिदेवाः तुरासः अस्मद्यज्ञंप्रति त्वरमाणाः संतोनोस्मानवन्तुरक्षन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७