मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् १

संहिता

आ धे॒नव॒ः पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा॑ ।
म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो॑ मयो॒भुवो॑ जरि॒ता जो॑हवीति ॥

पदपाठः

आ । धे॒नवः॑ । पय॑सा । तूर्णि॑ऽअर्थाः । अम॑र्धन्तीः । उप॑ । नः॒ । य॒न्तु॒ । मध्वा॑ ।
म॒हः । रा॒ये । बृ॒ह॒तीः । स॒प्त । विप्रः॑ । म॒यः॒ऽभुवः॑ । ज॒रि॒ता । जो॒ह॒वी॒ति॒ ॥

सायणभाष्यम्

धनेवः प्रीणयित्र्योनद्योमध्वा मधुरेण पयसारसेनसहिताः तूर्ण्यर्थाः त्वरमाणगमनाः अर्थोर्तेरितियास्कः । अमर्धन्तीरहिंसंत्यः सत्योनोस्मानुपायंतुउपागच्छन्तु तदर्थं महोमहते राये धनाय बृहतीर्महतीः सप्त सर्पणस्वभावाः सप्तसंख्यान्वा इमंमेगंगइतिमंत्रोक्ताः द्यावा तत्रहिप्राधान्येनसप्तैवोक्ताः मयोभुवः सुखस्यभावयित्र्योविप्रो विशेषेणप्रीणयिता जरिता स्तोता जोहवीति आजुह्वयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०