मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् २

संहिता

आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा॑य पृथि॒वी अमृ॑ध्रे ।
पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे॑भरे नो य॒शसा॑वविष्टाम् ॥

पदपाठः

आ । सु॒ऽस्तु॒ती । नम॑सा । व॒र्त॒यध्यै॑ । द्यावा॑ । वाजा॑य । पृ॒थि॒वी इति॑ । अमृ॑ध्रे॒ इति॑ ।
पि॒ता । मा॒ता । मधु॑ऽवचाः । सु॒ऽहस्ता॑ । भरे॑ऽभरे । नः॒ । य॒शसौ॑ । अ॒वि॒ष्टा॒म् ॥

सायणभाष्यम्

अहं सुष्टुती सुष्टुत्या शोभनस्तोत्रेण नमसाहविषाच अमृध्रे हिंसारहिते द्यावापृथिवी द्यावापृथिव्यावावर्तयध्यै आवर्तयितुमिच्छामि वाजायान्नार्थं अन्नंवैवाजइतिहिश्रुतिः । पिता पालयित्रीद्यौर्माता निर्मात्रीपृथिवी मधुवचाः प्रियवचनाः सुहस्ता अभिमतदानेनशोभनह्रस्ता एते उभयविशेषणे यशसौ यशोयुक्तौ द्यावापृथिव्यौ भरेभरे सर्वेषुसंग्रामेषुयज्ञेषुवा नोस्मानविष्टांरक्षताम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०