मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् ३

संहिता

अध्व॑र्यवश्चकृ॒वांसो॒ मधू॑नि॒ प्र वा॒यवे॑ भरत॒ चारु॑ शु॒क्रम् ।
होते॑व नः प्रथ॒मः पा॑ह्य॒स्य देव॒ मध्वो॑ ररि॒मा ते॒ मदा॑य ॥

पदपाठः

अध्व॑र्यवः । च॒कृ॒ऽवांसः॑ । मधू॑नि । प्र । वा॒यवे॑ । भ॒र॒त॒ । चारु॑ । शु॒क्रम् ।
होता॑ऽइव । नः॒ । प्र॒थ॒मः । पा॒हि॒ । अ॒स्य । देव॑ । मध्वः॑ । र॒रि॒म । ते॒ । मदा॑य ॥

सायणभाष्यम्

हे अध्वर्यवः ध्वरंयुंजानाः मधूनि महुरसानिसोमाज्यादीनि चकृवांसः कुर्वाणायूयं वायवे प्रथमंप्रभरत प्रकर्षेणसंपादयन्त चारु चरणीयं शुक्रं दीप्तंसोमं हेवायो त्वं चहोतेव होतायथाप्रथमंपिबतितद्वन्नोस्मदर्थं अस्य अमुंसोमंप्रथमःइतरदेवेभ्यःपूर्वंपाहिपिब हेदेववायो मध्वोमधुरंसोमरसं तेमदायररिमददाम वायोः पूर्वपानमसकृत्प्रपंचितं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०