मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् ७

संहिता

अ॒ञ्जन्ति॒ यं प्र॒थय॑न्तो॒ न विप्रा॑ व॒पाव॑न्तं॒ नाग्निना॒ तप॑न्तः ।
पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादि ॥

पदपाठः

अ॒ञ्जन्ति॑ । यम् । प्र॒थय॑न्तः । न । विप्राः॑ । व॒पाऽव॑न्तम् । न । अ॒ग्निना॑ । तप॑न्तः ।
पि॒तुः । न । पु॒त्रः । उ॒पसि॑ । प्रेष्ठः॑ । आ । घ॒र्मः । अ॒ग्निम् । ऋ॒तय॑न् । अ॒सा॒दि॒ ॥

सायणभाष्यम्

यंघर्मं महावीरंप्रथयन्तोन नेतिसंप्रत्यर्थीयः अस्त्युपमार्थस्यसंप्रत्यर्थेप्रयोगः इदानीं प्रथयन्तोविप्रामेधाविनऋत्विजोध्वर्य्वादयः वपावन्तंन वपावन्तंप्रवृद्धपशुंयथाग्नौतपन्तितद्वदग्नि नातपन्तः अंजन्ति पितुर्नपुत्रउपसिप्रेष्ठः पितुरुपस्थेप्रियतमः पुत्रइव घर्मोमहावीरः यद्द्रइत्यतपत् तद्दर्मस्यघर्मत्वंइतिहिश्रुतिः । सऋतयन् यज्ञमिच्छन् अग्निमग्नावसादिआसादितः अत्रपितृपुत्रदृष्टन्तः स्फोटादिराहित्येनसुखदवासप्रख्यापनार्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१