मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् ८

संहिता

अच्छा॑ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न ग॑न्त्व॒श्विना॑ हु॒वध्यै॑ ।
म॒यो॒भुवा॑ स॒रथा या॑तम॒र्वाग्ग॒न्तं नि॒धिं धुर॑मा॒णिर्न नाभि॑म् ॥

पदपाठः

अच्छ॑ । म॒ही । बृ॒ह॒ती । शम्ऽत॑मा । गीः । दू॒तः । न । ग॒न्तु॒ । अ॒श्विना॑ । हु॒वध्यै॑ ।
म॒यः॒ऽभुवा॑ । स॒रथा॑ । आ । या॒त॒म् । अ॒र्वाक् । ग॒न्तम् । नि॒ऽधिम् । धुर॑म् । आ॒णिः । न । नाभि॑म् ॥

सायणभाष्यम्

अच्छाभिमुखं अश्विना अश्विनौ हुव्ध्यै आह्वातुं गीरस्मदीयास्तुतिः दूतोन दूतइव आह्वातेव गन्तु गच्छतु गीर्विशेष्यते मही पूज्या बृहती महती शंतमा सुखतमा हेअश्विनौ मयोभुवा सुखस्य भावयितारौ सरथा एकरथौसन्तौ गन्तं गच्छन्तं द्रवीभूतं निधिं निहितंसोमं अर्वागभिमुखं आयातं आगच्छतं धुरं भारवाहिकांनाभिं आणिर्न कीलइव यथानिष्कीलानाभीरथंननिर्वहतितद्वत् युवाभ्यांवियुक्तः सोमोयागंननिर्वहतीतिज्ञापयितुमेवंदृष्टान्तितं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१