मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् ३

संहिता

अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातु॒ः स होता॑ सहो॒भरि॑ः ।
प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥

पदपाठः

अत्य॑म् । ह॒विः । स॒च॒ते॒ । सत् । च॒ । धातु॑ । च॒ । अरि॑ष्टऽगातुः । सः । होता॑ । स॒हः॒ऽभरिः॑ ।
प्र॒ऽसर्स्रा॑णः । अनु॑ । ब॒र्हिः । वृषा॑ । शिशुः॑ । मध्ये॑ । युवा॑ । अ॒जरः॑ । वि॒ऽस्रुहा॑ । हि॒तः ॥

सायणभाष्यम्

इयमाग्नेयी होतृत्वयुवत्वादिलिंगैः अयमग्निः अत्यं सततमतनार्हं हविराज्यादिकं सचते सेवते कीदृशंहविः सत् सत्फलसाधनत्वाद्धविरपिसत् धातुच धारकं सर्वस्यहूयमानस्यहविषः आदित्यद्वारावृष्टिसाधनत्वात् तयाचवृष्ट्या प्रजोत्पत्तेर्धारकत्वं तथाहि अग्नौप्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायतेवृष्टिर्वृष्टेरन्नंततः प्रजाइति । कीदृशोग्निः अरिष्टगातुः अहिंसितगमनः सतितस्यगमने यज्ञनिष्पत्त्याफलसिद्धेररिष्टगमनत्वं तदेवाह सः सखलु होता होमनिष्पादकः सहोभरिः बलस्यभर्ता बर्हिरनुप्रसर्स्राणः प्रकर्षेणसरन् वृषा वर्षकः फलस्य शिशुः सइवरक्षणीयः अप्रौढोवा युवा सर्वत्रमिश्रयिता अजरोजरारहितः विस्रुहा विस्रुहाणामोषधीनांमध्ये हितोनिहितः स्थापितः एवंभूतः सचते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३