मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् १४

संहिता

यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा॑नि यन्ति ।
यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥

पदपाठः

यः । जा॒गार॑ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । यः । जा॒गार॑ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।
यः । जा॒गार॑ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥

सायणभाष्यम्

योदेवोजागार सर्वदाविनिद्रोजागरूकोगृहेवर्तते तमृचः सर्वशास्त्रात्मिकाः कामयन्ते यश्च जागार तमु तमेव सामानि स्तोत्ररूपाणि यन्ति प्राप्नुवन्ति योजागारतमयं अभिषुतः सोमआह वक्ति मांस्वीकुर्विति हेअग्ने तादृशस्य तवसख्येसमानख्याने हितकरणेन्योकाः नियतस्थानोहं अस्मि भवामि ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५