मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् १५

संहिता

अ॒ग्निर्जा॑गार॒ तमृचः॑ कामयन्ते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यन्ति ।
अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥

पदपाठः

अ॒ग्निः । जा॒गा॒र॒ । तम् । ऋचः॑ । का॒म॒य॒न्ते॒ । अ॒ग्निः । जा॒गा॒र॒ । तम् । ऊं॒ इति॑ । सामा॑नि । य॒न्ति॒ ।
अ॒ग्निः । जा॒गा॒र॒ । तम् । अ॒यम् । सोमः॑ । आ॒ह॒ । तव॑ । अ॒हम् । अ॒स्मि॒ । स॒ख्ये । निऽओ॑काः ॥

सायणभाष्यम्

अग्निर्जागारेतिपंचदशी पूर्वयैवनिगदितव्याख्या यइत्यस्यस्थाने अग्निरितिविशेषः ॥ १५ ॥

अथचतुर्थेनुवाकेद्वादशसूक्तानि तत्रविदादिवइत्येकादशर्चंप्रथमंसूक्तं सदापृणोनामात्रेयऋषिः त्रिष्टुप् छन्दः वैतदित्युक्तत्वादि -दमपिवैश्वदेवं विदाएकादशसदापृणइत्यनुक्रमणीका विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५