मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् ३

संहिता

अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो॑ म॒हीनां॑ ज॒नुषे॑ पू॒र्व्याय॑ ।
वि पर्व॑तो॒ जिही॑त॒ साध॑त॒ द्यौरा॒विवा॑सन्तो दसयन्त॒ भूम॑ ॥

पदपाठः

अ॒स्मै । उ॒क्थाय॑ । पर्व॑तस्य । गर्भः॑ । म॒हीना॑म् । ज॒नुषे॑ । पू॒र्व्याय॑ ।
वि । पर्व॑तः । जिही॑त । साध॑त । द्यौः । आ॒ऽविवा॑सन्तः । द॒स॒य॒न्त॒ । भूम॑ ॥

सायणभाष्यम्

अस्मै मह्यं उक्थाथ स्तोत्रे पर्वतस्य पर्ववतोमेघस्य गर्भोगर्भस्थानीयमुदकं जिहीत चलति चालयतिवेन्द्रः कीदृशायास्मै महतीनां महीनांस्तुतीनां जनुषेउत्पादयित्रे पूर्व्याय प्रत्नाय तदेवपुनरुच्यते पर्वतोमेघोविजिहीत द्यौश्च साधत साधयतिवृष्टिं अविवासन्तः सर्वतः परिचरन्तोंगिरसोभूमअत्यधिकंयन्त उपक्षपयन्त्यात्मानंकर्मभिः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६