मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् ५

संहिता

एतो॒ न्व१॒॑द्य सु॒ध्यो॒३॒॑ भवा॑म॒ प्र दु॒च्छुना॑ मिनवामा॒ वरी॑यः ।
आ॒रे द्वेषां॑सि सनु॒तर्द॑धा॒माया॑म॒ प्राञ्चो॒ यज॑मान॒मच्छ॑ ॥

पदपाठः

एतो॒ इति॑ । नु । अ॒द्य । सु॒ऽध्यः॑ । भवा॑म । प्र । दु॒च्छुनाः॑ । मि॒न॒वा॒म॒ । वरी॑यः ।
आ॒रे । द्वेषां॑सि । स॒नु॒तः । द॒धा॒म॒ । अया॑म । प्राञ्चः॑ । यज॑मानम् । अच्छ॑ ॥

सायणभाष्यम्

अयमंगिरसांवादः अद्यास्मिन्यागदिने नुक्षिप्रमेतोएतगच्छत सुध्यः शोभनकर्माणोभवाम दुच्छुनाः द्विषः प्रमिनवाम प्रकर्षेणहिंसाम वरियोत्यन्तमित्यर्थः तदेवोच्यते सनुतः संभक्षणे द्वेषांसि यजमानस्यद्वेष्टृन् आरे दूरे दधाम स्थापयाम यद्वा सनुतइत्यन्तर्हितनाम पूर्वं प्रकाशवैरिणांवधउक्तः इदानीं प्रच्छन्नानामितिविवेकः तदर्थं यजमानंप्रांचः सदापृणमवत्सारं चाच्छाभिमुखमयाम गच्छाम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६