मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् ७

संहिता

अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः ।
ऋ॒तं य॒ती स॒रमा॒ गा अ॑विन्द॒द्विश्वा॑नि स॒त्याङ्गि॑राश्चकार ॥

पदपाठः

अनू॑नोत् । अत्र॑ । हस्त॑ऽयतः । अद्रिः॑ । आर्च॑न् । येन॑ । दश॑ । मा॒सः । नव॑ऽग्वाः ।
ऋ॒तम् । य॒ती । स॒रमा॑ । गाः । अ॒वि॒न्द॒त् । विश्वा॑नि । स॒त्या । अङ्गि॑राः । च॒का॒र॒ ॥

सायणभाष्यम्

अत्रास्मिन्यज्ञे अद्रिरभिशह्वग्रावा हस्तयतोहस्तेनसंहतःसन् अनूनोत् नौतिरत्रशब्दमात्रेवर्तते अशब्दयत् येनग्राव्णा तदभिषवेण दशमासोमासान् दशमासपर्यन्तं नवग्वाः नवमासपर्यन्तं गवार्थमनुतिष्ठन्तोंगिरसोन्वग्वाः न्वगोयुक्तावा आर्चन् अपूजयन्निन्द्रं यद्वा दशसंख्याकामासोपेताः दशमासानुष्ठानाः अंगिरसोपरेनवग्वाश्चैतेसर्वेपि येनार्चन्ति नवग्वासः सुतसोमासइन्द्रमितिहिनिगमः । ऋतं सत्यंयज्ञंवायतीप्राप्नुवती सरमा सरणशीलास्तुतिरूपा वाक् अंगिरसां गवार्थं इन्द्रेणप्रहितादेवशुनीवा सरमा सरणशीलास्तुतिरूपा वाक् अंगिरसां गवार्थं इन्द्रेणप्रहितादेवशुनीवा गाअविन्दत् पणिभिरपहृताः विश्वानि सर्वाणिस्तुत्यादिलक्षणानि सत्या सत्यानि चकारांगिराः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७