मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४७, ऋक् २

संहिता

अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म् ।
अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वतः॑ सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्था॑ः ॥

पदपाठः

अ॒जि॒रासः॑ । तत्ऽअ॑पः । ईय॑मानाः । आ॒त॒स्थि॒ऽवांसः॑ । अ॒मृत॑स्य । नाभि॑म् ।
अ॒न॒न्तासः॑ । उ॒रवः॑ । वि॒श्वतः॑ । सी॒म् । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । पन्थाः॑ ॥

सायणभाष्यम्

अजिरासोगमनशीलाः अजिरिरच्प्रत्ययान्तोजिरशिशिरेत्यादिनानिपातितः तदपः तदेवप्रकाशनरूपंकर्मयस्यतत्तादृशमहरी यमाना -गच्छन्तः अमृतस्य सूर्यस्य नाभिं सन्नाहकं मंडलं अमृतस्योदकस्यवानाभिमन्तरिक्षं आतस्थिवांसः आतिष्ठन्तः अनन्तासःअपरिमिताः उरवोव्याप्ताः पन्थाः पतनशीलाः रश्मयोद्यावापृथिवी परिदिवंच पृथिवींचान्तरिक्षंच विश्वतः परितोयन्ति गच्छन्ति सीमितिपूरणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः