मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४८, ऋक् २

संहिता

ता अ॑त्नत व॒युनं॑ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑ ।
अपो॒ अपा॑ची॒रप॑रा॒ अपे॑जते॒ प्र पूर्वा॑भिस्तिरते देव॒युर्जनः॑ ॥

पदपाठः

ताः । अ॒त्न॒त॒ । व॒युन॑म् । वी॒रऽव॑क्षणम् । स॒मा॒न्या । वृ॒तया॑ । विश्व॑म् । आ । रजः॑ ।
अपो॒ इति॑ । अपा॑चीः । अप॑राः । अप॑ । ई॒ज॒ते॒ । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । दे॒व॒ऽयुः । जनः॑ ॥

सायणभाष्यम्

इयमुषस्या ताउषसः अत्नत वितन्वन्ति किं वयुनं प्रज्ञानं कीदृशं वीरवक्षणं वीरैरृत्विग्भिर्वहनीयं यद्वा वक्षणाः कार्यवोढारोयेनप्रेर्यन्तेतत्तादृशं किंच समान्या एकरूपया वृतया आवरकयादीप्त्या विश्वमासर्वमपिरजः जगदत्नत एवंसति देवयुः देवकामोजनः अपाचीः अपांचनाः प्रतिनिवृत्तमुखीः अपरा अन्याआगामिनीरुषसः अपोएजते अपचालयति अपरोपशब्दःपूरणः सर्वाभिस्ताभिः प्रतिरते प्रपूर्वस्तिरतिर्वर्धनार्थः वर्धयतिस्वमनीषां वर्धतेवास्वयम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः