मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४८, ऋक् ४

संहिता

ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी॑कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः ।
सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा॑ति॒ भर॑हूतये वि॒शे ॥

पदपाठः

ताम् । अ॒स्य॒ । री॒तिम् । प॒र॒शोःऽइ॑व । प्रति॑ । अनी॑कम् । अ॒ख्य॒म् । भु॒जे । अ॒स्य॒ । वर्प॑सः ।
सचा॑ । यदि॑ । पि॒तु॒मन्त॑म्ऽइव । क्षय॑म् । रत्न॑म् । दधा॑ति । भर॑ऽहूतये । वि॒शे ॥

सायणभाष्यम्

इयमाग्नेयी तां प्रसिद्धामस्याग्नेः रीतिंस्वभावगतिंवा परशोरिवप्रतिपरशोः प्रतिनिधिमिव पश्यामि परशुर्यथास्वस्वामिन्यभिमतंसा- धयतितद्वदित्यर्थः अस्य वर्पसोरूपवतोस्यादित्यस्यानीकंरश्मिसमूहं भुजे भोगाय अख्यं कथयाम्यहं यदि यस्मात् सचदेवः सचात्मत्सहायः सन् पितुमंतं अन्नवन्तं क्षयमिव निवासमिव भरहूतये संग्रामेयज्ञेवा आह्वानयुक्ताय विशे यजमानाय रत्नं रमणीयंधनं दधाति धारयति उभयमपिददातीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः