मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४९, ऋक् ३

संहिता

अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः ।
इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥

पदपाठः

अ॒द॒त्र॒ऽया । द॒य॒ते॒ । वार्या॑णि । पू॒षा । भगः॑ । अदि॑तिः । वस्ते॑ । उ॒स्रः ।
इन्द्रः॑ । विष्णुः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । अहा॑नि । भ॒द्रा । ज॒न॒य॒न्त॒ । द॒स्माः ॥

सायणभाष्यम्

अयमग्निरदत्रया अदनीयानि अदेरौणादिकोऽत्रप्रत्ययः सुपांसुलुगितियाजादेशः अथवा अत्तीत्यदत्राजिह्वातयावायाणि वरणीयानि काष्ठानि दयते दयतिरनेककर्मा अत्रदहने वर्तते दहतीत्यर्थः सामर्थ्यादग्निरितिगम्यते यद्वा अदनीयानि वरणीयानि अन्नानि दयते ददा- तियजमानाय दयदानगतिहिंसाबलाख्यानेषु दीदृशोग्निः पूषा पोषकः भगोभजनीयः अदितिरखंडनीयः यद्वा पूषदयस्त्रयोपिप्रत्येकं अदनीयानि वार्याणिचान्नानिदयते उस्रः सूर्योवस्तेआच्छादयति सामर्थ्यात्तेजांसि इन्द्रादयः पंचापिदेवाः दस्माः दर्शनीयाः अहानि सर्वा- ण्यागन्तॄणि भद्रा शोभनीयानि जनयन्त जनयन्ति दिवसानां यागदानादिविशिष्टत्वमेवभद्रत्वम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः