मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् ५

संहिता

अर्ह॑न्तो॒ ये सु॒दान॑वो॒ नरो॒ असा॑मिशवसः ।
प्र य॒ज्ञं य॒ज्ञिये॑भ्यो दि॒वो अ॑र्चा म॒रुद्भ्य॑ः ॥

पदपाठः

अर्ह॑न्तः । ये । सु॒ऽदान॑वः । नरः॑ । असा॑मिऽशवसः ।
प्र । य॒ज्ञम् । य॒ज्ञिये॑भ्यः । दि॒वः । अ॒र्च॒ । म॒रुत्ऽभ्यः॑ ॥

सायणभाष्यम्

हेहोतः हेआत्मन्वा येअर्हन्तः पूज्याः सुदानवः शोभनदानाः नरोनेतारः कर्मणां असामिशवसोऽनल्पबलाःसन्ति तेभ्य़ोयज्ञियेभ्योयज्ञा- र्हेभ्योदिवोद्योतमानेभ्योमरुद्भ्यः विभक्तिवचनयोर्व्यत्ययः यद्वा कर्मणिषष्ठी दीप्तं यज्ञं यज्ञसादहनंहविः प्रार्च पूजय प्रयच्छेत्यर्थः अथवा दिवोन्तरिक्षादागतेभ्यइतिसंबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः