मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् १४

संहिता

अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा॑ ।
दि॒वो वा॑ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ॥

पदपाठः

अच्छ॑ । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । दा॒ना । मि॒त्रम् । न । यो॒षणा॑ ।
दि॒वः । वा॒ । धृ॒ष्ण॒वः॒ । ओज॑सा । स्तु॒ताः । धी॒भिः । इ॒ष॒ण्य॒त॒ ॥

सायणभाष्यम्

हेऋषे मारुतंगणं मरुत्संघं मित्रंन आदित्यमिव दाना हविर्दानेन योषणा यौतेरिदंरूपं यौतीतियोषास्तुतिः तयाचाच्छ आगच्छेति- शेषः ऋषेः उत्तरार्धःप्रत्यक्षवादः ओजसा बलेन हेधृष्णवोधर्षकामरुतः दिवोवा द्युलोकाद्वा वाशब्दश्रुतेरितरलोकद्वयाद्वा धीभिरस्मदी- याभिःस्तुतिभिः स्तुताइषण्यत गच्छतयज्ञं ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०