मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् १४

संहिता

अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः ।
वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥

पदपाठः

अति॑ । इ॒या॒म॒ । नि॒दः । ति॒रः । स्व॒स्तिऽभिः॑ । हि॒त्वा । अ॒व॒द्यम् । अरा॑तीः ।
वृ॒ष्ट्वी । सम् । योः । आपः॑ । उ॒स्रि । भे॒ष॒जम् । स्याम॑ । म॒रु॒तः॒ । स॒ह ॥

सायणभाष्यम्

हेमरुतोवयं स्वस्तिभिः क्षेमैरवद्यंपापं हित्वा परित्यज्य निदोनिन्दकानरातीः शत्रून् तेरःप्राप्तान् यद्वा तिरःअन्तर्हितान् अतीयाम अतिक्रम्यगच्छेम तिरस्कुर्मइत्यर्थः अनेनानिष्टपरिहारः प्रार्थितः उत्तरेणेष्टप्राप्तिरुच्यते वृष्ट्वी वृष्टिषुयुष्मत्प्रेरितासु सतीषॄ शं सुखं योः पापानांयावनंच आपउदकानि शसःस्थानेजस् उस्रि गोयुक्तंभेषजं यद्यप्येतदुदकनाम तथापिपृथगपामभीधानादत्रतद्धेतुकार्यमन्न- मुच्यते तत्सर्वंसहस्याम लभेमहि हेमरुतोवयं यद्वा अपोयुष्मत्प्रेरिताः उक्तंसर्वंकुर्वन्तु वयंसर्वेसहैवस्याम भवेमयुष्मत्स्वभूताः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३