मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् १

संहिता

प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ ।
घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥

पदपाठः

प्र । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवः । इ॒माम् । वाच॑म् । अ॒न॒ज॒ । प॒र्व॒त॒ऽच्युते॑ ।
घ॒र्म॒ऽस्तुभे॑ । दि॒वः । आ । पृ॒ष्ठ॒ऽयज्व॑ने । द्यु॒म्नऽश्र॑वसे । महि॑ । नृ॒म्णम् । अ॒र्च॒त॒ ॥

सायणभाष्यम्

प्रअनजेतिसंबन्धः मारुताय मरुत्संबन्धिने शर्धायबलाय इमां क्रियमाणां वाचं स्तुतिं प्रानज प्रापय कीदृशाय स्वभानवे स्वायत्तते- जसे पर्वतच्युते पर्वतस्यच्यावयित्रे घर्मस्तुभे घर्मस्यस्तोभयित्रे दिवआद्युलोकादागच्छते प्रुष्ठयज्वने षट्पृष्ठैरथंतरबृहदादिभिरीजानाय द्युम्नश्रवसे द्योतमानान्नाय महि महत् प्रभूतं नृम्णं धनं ह्विर्लक्षणंअर्चत ददतेत्यर्थः ॥ १ ॥

कारीर्यांप्रथमस्याःपिंड्याः प्रवोमरुतइतियाज्या सूत्रितंच-प्रवोमरुतस्तविषाउदन्यवआयंनरइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४