मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् ५

संहिता

तद्वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् ।
एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिम् ॥

पदपाठः

तत् । वी॒र्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । त॒ता॒न॒ । सूर्यः॑ । न । योज॑नम् ।
एताः॑ । न । यामे॑ । अगृ॑भीतऽशोचिषः । अन॑श्वऽदाम् । यत् । नि । अया॑तन । गि॒रिम् ॥

सायणभाष्यम्

हेमरुतोवोयुष्माकं तद्वीर्यं प्रसिद्धं सामर्थ्यं महित्वनं महत्त्वं दीर्घं अत्यन्तमायतं ततान तनोति स्तोता लोके सूर्योन योजनंसूर्यस्तेज- इव एतान एतवर्णादेवानामश्वाइव तेयथा यामे गमने योजनंदीर्घंतन्वंति तद्वदित्यपरोदृष्टान्तः तेचागृभीतशोचिषः अगृहीततेजस्काः यद्वैतन्मरुतांविशेषणं हेमरुतोयूयमगृभीतशोचिषः सन्तोयद्यदा अनश्वदां व्यापकोदकादातारं पणिभिरपहृतानां अश्वानामप्रदातारंवा गिरिं मेघं पर्वतं वा न्ययातन निहतवन्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४