मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् ६

संहिता

अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः ।
अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ॥

पदपाठः

अभ्रा॑जि । शर्धः॑ । म॒रु॒तः॒ । यत् । अ॒र्ण॒सम् । मोष॑थ । वृ॒क्षम् । क॒प॒नाऽइ॑व । वे॒ध॒सः॒ ।
अध॑ । स्म॒ । नः॒ । अ॒रम॑तिम् । स॒ऽजो॒ष॒सः॒ । चक्षुः॑ऽइव । यन्त॑म् । अनु॑ । ने॒ष॒थ॒ । सु॒ऽगम् ॥

सायणभाष्यम्

हेवेधसोवृष्टेर्विधातारः हेमरुतः शर्धोभवतांगणमभ्राजि भ्राजते यद्यस्मादर्णसमुदकवन्तं वृक्षं वृश्र्यते विदार्यतेइतिवृक्षोमेघः तंमोषथ ताडयथेत्यर्थः कपनाइव इवेत्यनर्थकः कंपनाः सन्तः यद्वा कंपनाः क्रिमयोवृक्षंघुणादयः तेयथा मुष्णंतितद्वत् अध अपिच स्मेतिपूरणः नोस्मान्मामित्यर्थः हेसजोषसः युष्मासु परस्परंसमानप्रीतयोयूयं अरमतिं आरमणं धनादिकं प्रतियन्तं गच्छन्तं अनुनेषथ अनुक्रमेणनयथ सुगं सुगमनंमार्गं तत्रदृष्टान्तः-चक्षुरिव तद्यथामार्गप्रदर्शनेननायकंभवतितद्वत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५