मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् ११

संहिता

अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ ।
अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्यो॒ः शिप्रा॑ः शी॒र्षसु॒ वित॑ता हिर॒ण्ययी॑ः ॥

पदपाठः

अंसे॑षु । वः॒ । ऋ॒ष्टयः॑ । प॒त्ऽसु । खा॒दयः॑ । वक्षः॑ऽसु । रु॒क्माः । म॒रु॒तः॒ । रथे॑ । शुभः॑ ।
अ॒ग्निऽभ्रा॑जसः । वि॒ऽद्युतः॑ । गभ॑स्त्योः । शिप्राः॑ । शी॒र्षऽसु॑ । विऽत॑ताः । हि॒र॒ण्ययीः॑ ॥

सायणभाष्यम्

हेमरुतोवोयुष्माकमंसेषु ऋष्टयआयुधानिभासन्तइतिशेषः पत्सुखादयः कटकाः वक्षः सुरुक्माः हाराः रथेशुभः मधुराप्रुषाआपः अग्निभ्राज्सोग्निदीप्ताः विद्युतोगभस्त्योः हस्तयोर्भासन्तइत्यर्थः शीर्षसुशिरः सुहिरण्ययीः हिरण्यमय्यः शिप्राः उष्णीषमय्यः विततावि -स्तृताः प्रतिवाक्यंवितताइतिवासंबन्धनीयं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६